श्रीदत्तं सच्चिदानन्दं नवनाथ स्वरूपिणम्।
स्मराम्यामुष्मिकं भाग्य-मैहिकं भृश माप्नुयाम्
"गं " बीजं दत्त नाथं तं ढिल्लीस्थं यमुना तटे। 1
पिनाकिनी तटे नेल्लूर् पुरे "णं " बीज संयुतम्। 2
"पं " दत्तनाथं तं भीमवरे पुरवरे स्थितम्। 3
शैलोद्देशे तु कडप पुर्यां "गं " दत्तनामकम्। 4
कोल्लेर् सरस्तटे कैक- लूरौ "सं "दत्त मानुवे। 5
नागावळी तटे श्रीका – कुळे "चिं " दत्त सद्गुरुम्। 6
"दां "दत्तं दण्डकारण्ये कामारेड्डि पुरे स्थितम्। 7
सुरम्य मन्दिरे हेलापुर्यां "नं " दत्त देशिकम्। 8
गुंटूरु नगरावासं सेवे "दं " दत्त देशिकम्। 9
श्रीमातृ शिव विष्णूनां दिव्यक्षेत्र निवासिनम्।
पीठापुरस्थितं वन्दे दत्तं श्रीपादवल्लभम्।। 10
भीमामरजयो स्संगे - क्षेत्रे श्रीगाणगापुरे।
नरसिंह सरस्वत्याः पादुका क्षेत्रराजितम्।। 11
वन्दे गणपति सच्चि - दानन्द मनु भासकम्।
श्रीदत्तं सच्चिदानन्दं नवनाथ स्वरूपिणम्।
स्मराम्यामुष्मिकं भाग्यं - ऐहिकं भृशमाप्नुयाम्।। 12