गोविन्द लहरी
पुरोवाकः - भगवतः श्रीनिवासस्य कृपावशात्, श्रीवेङ्कटाचल क्षेत्रे (तिरुमलगिरौ), वेदविद्यार्थिनां परीक्षकत्वेन नियुक्तः अयं जनः, अधिगिरि नवरात्रकालवाससौख्यम् अन्वभवत्, माघमासे। तस्मिन्नेव श्रीमतां सद्गुरुवर्याणां श्रीश्रीगणपति सच्चिदानन्द स्वामिवर्याणां सन्निधौ, श्रीपतेः पुरुषोत्तमस्य सङ्कल्पेन, तदीय वैभवनिर्झरवर्णनोद्देशेन प्रवृत्तमिदं पद्यकाव्यम्। श्रीपतिविभवशिखरनिर्वर्णनाय संप्रवृत्तमिदं शिखरिणीवृत्तसमन्वितं लघुकाव्यमिदं, गुरुजनामोदेन धन्यतां सम्पादयेदिति सप्रश्रयं निवेदयामि।
हरिनामामृतसेवनासक्तः –
वंशीकृष्ण घनपाठी
अनिर्वाच्यः
अनिर्वाच्यस्यैतत् हरिपदवचः किन्नु करवै
जगद्व्याप्तं व्योमास्पदमिममहं कुत्र विचरै
परब्रह्मात्मानं मदधिकरणं कं विकलयै
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। 1
पथिकस्नेहः
श्रियं लक्ष्मीं वाञ्छन् यदि यतनमद्धैव विदधे
तदीयं सख्यं मे पुनरपि स लक्ष्मीं हि चकमे।
समो मार्गो यन्नौ बत भवति सख्या सह सुखं
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। 2
वेदोद्धरणहेतुः
पुरा क्षीणं पाथो दनुजगण कालादिवशतः
समुज्जह्रे वेदं किमुत निज सत्त्वप्रकटितेः।
धियो ध्येयं दातुं जनिवलय.मुच्छेत्तु.मथवा
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। 3
श्रीवासः
श्रियं श्रीवासोऽयं धरति परवात्सल्यमतिमान्
श्रियो वात्सल्यं सं-भजति नितरां भाममुखतः।
श्रितश्श्रीवत्सेति प्रथितविभवै.र्दैवतगणैः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
सुकृतहेतुः
चतुर्णां वेदानामनुदनमधीत्याऽसि सुकृती
कृतं कार्यं ते यत् प्रदिशति स एको व्यपदिशेत्।
सखे जानीह्येतं सुकृतितममध्यस्तभुवनम्
स्वकां गोविन्दोऽयं द्वयरहित संस्थां प्रदिशताम्।।5
पथां गम्यम्
विलीयन्तेऽध्वानो बहुविधमहामोहगहनाः
परे ब्रह्मण्यस्मिन् पृथुमहितसत्त्वे ध्रुवपदे।
जगच्चारंचारं विश चरम पद्यां मधुरिपोः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। 6
श्यामवर्णेन न प्रेयान्
अयं मेघश्यामो यदि भवति सौन्दर्यरसिकः
तदा कृष्णो वर्णः किमुत भवतात् मोहकतमः।
प्रियस्संकर्षत्वात् स तु भवति वर्णेन न भवन्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। 7
सुवर्णविमानम्
विमानं सौवर्णं किमिह कुरुते बोधमनिशं
न चैते भावास्ते ऽमितपरिमितौ मानसुशकाः।
न वृद्धिह्रासौ सुच्छविरयिमतस्स्वात्मसुनिधेः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। 8
सर्वधर्म परित्यागः
त्यजेर्धर्माधर्मौ शरणमहमस्मीति वचनात्
न कर्तव्यं किञ्चित् प्रभुरवति चेत्ते तव मतिः।
अनालस्याद्देवं भज निरतमात्मार्पणधिया
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। 9
सौन्दर्यमोहः
इयं सुभ्रूस्तन्वी जनयति मुदं मोहकुतुकं
युवा स्निग्धो वा तौ तरुणरसिकावेष तु पुनः।
पतिस्सौन्दर्याणा-मतनुतत-माप्नुष्व मनसा
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।10
श्रीदेवी भूदेव्योः वक्षस्स्थलनिवासः
मही लक्ष्मी.स्स्यातां प्रथमत इमे जीवनकृते
जनानां सर्वेषा-मननविधिना क्रामयति यः।
स्वयं वक्षोदेशे दधति जगतीपालकतमः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। 11
द्वयमद्वयम्
द्वयं सर्वं पाणी पदयुगमथ श्रोत्रयुगलं
अमू नेत्रे लक्ष्ये खलसुजनशिक्षाऽवनचणे।
तथाऽप्यद्वैतोऽयं भुवनगणरक्षैकनिपुणः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। 12
कटिहस्तः
कटौ हस्तं कृत्वा प्रभुरयि विलासं प्रथयते
महाराजो गोप्ता पुरजननिकायस्य जगताम्।
अहं वर्ते मा भेः शरणमहमित्यैक्षयदहो
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।१४
वरदहस्तः
वरं दत्ते देवो गुणगुणिविवेकेन जनुषां
अतः प्रह्वीभावी नमनविधिनैवार्हति जनः।
तदादानोपायं समवगमयन् पादशरणम्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।१४
पटीरपुण्ड्र हेतूत्प्रेक्षा
पटीरं पुण्ड्रार्थं धरति रमणीयं भृगुदिने
भृगो रोषाविद्धं चरणतलघातं स्मृतिपथे।
दधानस्स्वं चित्तप्रशममभिलक्षय्य तनुते
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। १२
पटीरपुण्ड्र सन्देशः
त्रयं पुण्ड्राणां यो विदधदिह लोकाय कुरुते
प्रबोधं प्रोत्थाने तपन गुण दोष त्रितयतः।
निजं रेतश्चोर्ध्वं गमयति सुधां योगकलितां
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।१३
त्रिपुण्ड्र प्रयोजनम्
त्रिपुण्ड्रं लक्ष्मस्वं कुरुत हरिभक्ता यत इदम्
न्हुते भ्रूमध्यं वो हरति परिदृष्टिं नियमतः
हरेरूपघ्यानं भवति सुलभं हृष्यति तत:
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
चुबुके पटीरलेपः
पुरा गोपस्याभ्रे-र्निहतिकृत नैजक्षतिमत:
पटीरस्यालेप.श्चुबुकयुगलेऽधायि महित:
ह्नुवानो बाधाङ्कं हसितवदनं शिक्षयति भो:
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
कस्तूरीतिलकम्
यथा स्पष्टीभूता समजननवर्गस्य समता
मृगः पक्षी कीटः भगवदुदिता इत्यनुदिनम्।
कलं धत्ते श्यामं मृदमदमसौ ब्रह्मजनकः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
चरणौ
ययोस्सेवालाभा.ददितिजमुखा उत्तमगणाः
स्वमुत्थानं प्राप्तुं परिचरणमिच्छन्ति शतशः।
ततस्सेवेयाहं तदजपितृ पादौ प्रतिदिनम्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
वराहस्य स्थानम्
वराहोयं वामं गिरिवरमधिष्ठाय लषते
पुरारूपोयं मे मयि सखितया दर्हति सदा।
इति क्रोडस्थानं परिगतिमियाय त्रिभुवनः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
(लष-कान्तौ) (दृह - वृद्धौ)
वराह दर्शनम्
प्रशस्तं कासारं मलहरणमध्युष्य दयते
स पोत्री भूजानिः जगदवनदक्षो विजयते
वराहं नित्यं वो वरमहनि नक्तं च कुरुतां
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
वेङ्कटाचलम्
महामेरोस्सूनुः धरणिधरराजः कृतयुगे
तपस्तेपे पत्युः जगत उपयातुं सदनताम्।
ययौ दान्तोसौ वे.ङ्कटगिरिवरो यस्य पदवीं
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
शेषाचलम्
विवादे सञ्जाते हरिशयनस्मीति बहुधा
पुरा दृप्ते शेषे श्वसनमुखतोध्मापयदसौ।
अहिं जीर्णं शेषाचल.मनु निवत्स्याम्यदयत
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
नारायणाचलम्
चलं चित्तं नारं दृढमचलमात्तं विधति यः
स विख्यातो देवो विधरत इदं सर्वहृदयम्।
ततः ख्यातो नारायणगिरिरमुष्योदवसितम्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
वृषभाचल
श्रुतौ प्रोक्तश्शक्रः ननु वृषभनामा त्वच्चरणयोः
सदा भक्त्यावेशाद् विरचयति सेवां परिचरः।
तदीयाद्रिश्शस्तो वृषभगिरिरस्ति क्रतुपते
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
वृषाद्रि ख्यातिः
वृषा पर्जन्योयं-ह्रदनदनदीर् यस्य शिखरे
सुवर्षेणासिञ्चन् सलिलपरिपूर्णान् दधदिमाम्।
वृषाद्रीतिख्यातिं सहजरुचिरासेचनकताम्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
(आसेचनकम् - दर्शनात् तृप्तेरन्तो नास्ति)
अञ्जनाद्रिनामा - हनुमत्सेवायाः
यदीयागन्तृत्वं मनसि विनिधाय स्नुषु बुधा-
ञ्जना देवी चक्रे कुशलवरिवस्यां गिरिवरे।
हनूमन्तं सूतुं प्रथितगिरिरासीत् तदभिधः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।(स्नुः सानुः)
अञ्जनाद्रिनामा - कल्याणत्वात्
अनन्यं प्रेमाणं परिणयमुखं यस्य सविधे समञ्जन्तोन्योन्यं किल वरवधूहृन्द्यविरतम्।
अतोयं सुख्यातोञ्जनशिखरिकल्याणनिलयः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। (वश- कान्तौ)
गरुडाद्रि
सुपर्णस्ते वाहो विषधरभयापघ्नसुयशाः
प्रभोस्सेवां यस्य श्रितजनसमाह्वानविधिना।
करोतीति ख्यातिर् गरुडगिरिसन्दर्शनविधेः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
कलाधारी - रमणः
कला धत्ते रामाः चतुरधिकषष्टिं तु रमणः
स्वयं रामो देवो मनसिजपिता मोहनतनुः।
महामोहाव्याजो नटवरजगन्नाटककरः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
घण्टानाद स्मरणम्
प्रगे सायं घण्टा नदति किल नीराजनविधेः
महानैवेद्यस्याऽप्यपि समयमावेदयति मे।
तदा गोविन्देति स्मरणमनुवाद्यैव सुरमै
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। २४
यात्रायां गोविन्दस्मरणन्तु कीलकम्
त्याकामार्गारोहः परिवहन सोपानसरणी
भुवश्शैलोद्देशं गमयितुमलं किन्तु चरमम्।
विना गोविन्देति स्मरणमिह यात्रा न सफला
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
गोविन्द नामा - धेनुपालकः
गवां धेनूनां योऽवति निचयमात्मप्रियतमः
इदं गव्यं पुष्यात् मनुजकुलवृद्धिं द्रढयत।
मतिं गोरक्षायै मम भवति नामेति कथयन्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
गोविन्द नाम्नः वेदोद्धारकत्वम् - मत्स्यावतारः
गवां वै वेदाना.मपहरणकामं दनुजनिं
पुराकल्पे सोमं जलधिचर.मुन्माप्य शफरः
चतुर्णां राशिं यः श्रुतिविदित सत्वोविधि तत:
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।२१
कलियुगे गोविन्द नाम्नः वेदोद्धारकत्वम्
कलेः काले लोके क्षयमुपगते वेदविततेः
अधीतिस्थाने स्वं गुरुकुलमहौघं दिशि दिशि।
गवां वाचां विन्दो निखिलजनधर्मार्थसुधुरः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
केशदानेन गोविन्द नाम्नः दीक्षासूचकत्वम्
नृणां केशान् गा य: शमलगण संसूचनपरान्
नवां दीक्षां धर्मे हरिभजन दीक्षैकसुपथे
श्रिता मे सन्तीति प्रथयितुमलं स क्षपयते
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
गोविन्द नाम्नः केशवापनहेतुत्वम्
मृताऽमेध्येयं त्वक् परिमर.मिताऽपि भ्रमयते
ततो व्यावर्त्यं वो हृदय.मिति सन्दापयति गाः।
मदीयेयं यात्रा भ्रमनिरसनायेति गमयन्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।२२
गोविन्द नामा - स्वप्रकाशकिरणवान्
गवां काशानां वा किरणगणयूथस्य सुनिधिः
स्वतस्संसिद्धानां सकलजनुषां द्योतनविधेः।।
अहोरात्राभ्यां यो विसृजन.तिरोधानगुणिकः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।। १९
दर्शनभोगः
महासंवर्ताग्नौ पतितमपि शैत्यं कलयते
यदीक्षालेशोऽयं श्रमहरणसामर्थ्यमहिमा।
तदर्थं सद्भक्ता अवसरमभीप्सन्त इमके
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
शङ्खचक्रौ न स्तः
जहौ चक्रं कृष्णो मतिमदुपलक्ष्यैव धिषणा
अमीभिः किं कुर्यां प्रहरणगणैरित्यकवत।
पुनश्शङ्खं हित्वा निजविबुधनेतृत्वकथया
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।(कुङ्- शब्दे)
शङ्खचक्रौ न स्तः - तोण्डमानाय दानम्
अयं त्रेतायां प्रागभयवरदानो रघुवरः
पुनः कृष्णत्वं वेङ्कटपतिविभूतौ प्रकटयन्।
रथाङ्गं कम्बु स्वाश्रितनृपतयेदात् रणजये
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
कीर्तनास्वादी
वशंवादी पत्न्या उपयमनसंस्कारवशतः
मनोज्ञं दाम्पत्यं कवयितुमहो प्रेमकलहम्।
असिं प्राहैद्देवः सहजकविवेषेण रसिकः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
कीर्तनास्वादी
विपश्चिन्मेधावी प्रहित उदितो नन्दकवरः
सविस्रम्भालापान् सपदि रमणीयं विरचयन्।
यदीयं संप्राप्नोत् प्रणयममितं गीतचरितः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
कीर्तनास्वादी
विचख्यौ दोषज्ञोन्नमयकविराट् पण्डितवरः
प्रभोः पद्मावत्याः प्रणयकलहोत्प्रेक्षकतमः।
अनूनं वृत्तान्तं स्वरचितकृतौ यस्य कृपया
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
अधमर्णत्वम्
त्रिलोकीनाथोऽयं परिणयमहायागतजन-
प्रदिप्रावारेभ्योऽभ्यवहृतिकृते ऽनन्यविभवः।
मयोभो.स्साक्षित्वे स्वय.मृण.मगात् वैश्रवणतः।
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
ऋणापाकरणस्य दृष्टान्तभूतः
अपाकार्यं सर्वै.रधम.मृण.मेतद्धि सुकृतं
ततो दत्ते वृद्धिं शिवसवयसे धार्मिकवरः।
असौ तद्दृष्टान्तो विलसति धराया.मृजुपथः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
धनिकः
भुवो लोकस्येश.स्त्रिभुवनपतिः जन्युहृदये
वरीवर्तीशानो निरधिकधनी माधवपदः।
जन.स्तस्यैश्वर्यं त्रिपद.ममितं नापि मनुते
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
सप्तगिरिवासः
महीध्रा.स्सप्तास्याऽवसथपदवीं यान्ति महता
तपोध्यानेनामी सुरमुनिगणाः पेदिर इमाम्।
तदीयासेवायाः मुदितमनसा नाम विदधे
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
सप्तचक्रस्वामी
शरीरे षट्चक्रं पवनधरणात् कुम्भकपथे
जनोऽतीत्याध्यास्ते भुजगसरणात् सप्तमपदम्।
यदीयालोकस्स्यात् प्रसृतगुरुयोगाप्तिफलभाक्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
ब्रह्मोत्सव सम्भ्रमी
पुराकल्पे ब्रह्मा सदधिवसतिं न्यासविधिना
प्रतिष्ठायज्ञे यं ध्रुवपदधियाऽसादय.दिमम्।
तदारभ्य ब्रह्मोत्सवविधिसपर्यां विदधते
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
ध्वजारोहणम्
ध्वजारोहो ब्रह्मोत्सवमखमुखे यस्य लषते
ध्वजस्तम्बस्योर्ध्वं गरुडपटमुच्छ्रित्य यजताः।
पनायन्ते तार्क्ष्यं मृदुडयनसौख्याय तु हरेः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
शेषवाहनम्
सुखं शेते यस्मिन् पयउदधिगर्भे हरिरसौ
स शेषोत्रागत्य प्रभुशकटरूपेण रमते।
महौन्नत्यानस्वी विवधचरिता वेङ्कटपतिः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
हंस वाहनम्
पयः क्षीरं नीरम् न हि समपदार्थे पुनरिमे
मरालो विङ्क्तेऽयं सदसदुभयं वेक्तुमुचितम्।
विवेकं रथ्याया- मुपदिशति यो हंसगमनः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
सिंह वाहनम्
विमाने पञ्चास्याः प्रदिशि हरिराजो निवहते
महत्त्वं त.द्देवीगुणभरितमर्मात्र घटते।
अयं सौभ्रातृत्वात् गिरिवरसुतालक्षणयुतः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
मौक्तिकच्छदिः
सितं स्मेरास्यं त.द्गललसित कुन्दानि मुकुटम्
शितं खड्गं श्रेष्ठं वसन.मवदातं निजयशः।
तत.श्शुक्तिच्छत्रे विहरति सितांशु.स्वसृपतिः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
कल्पवृक्षवाहनम्
भुवं नित्यं भूजा.नवितु.मवतीर्णोऽस्मि विविधे
तरा.वीक्षध्वं मां दलसुमसमि.द्दारुफलदम्।
इमं विश्वासं यः प्रजनयति कल्पद्रु.तलगः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
सर्वभूपाल वाहनम्
भुवः पाला यस्य स्थितिगतिविधीन् कुर्वत इमे
कलालेशा.देष प्रभवति सुनिर्वाहनिपुणः।
अतो भूपालानां वहनविधिनोज्जृम्भितरयिः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
मोहिनी अवतारी
महाविष्णोर्माया भवति महतामप्यसुलभा
नितान्तं मोहान्धुं प्रसभ.मुररीकारयति च।
रहस्यं मोहिन्याः वसनधरणात् स्मारयति यः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
गरुड वाहनम्
विहर्तुं यस्स्वैरं सकलजगदुत्पातशमनः
चितौ भास्वन्तं तं श्रुतिविहितरूपं खगपतिम्।
गरुत्मन्तं युङ्क्ते गिरिविहरणे यज्ञपुरुषः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
हनुमद्वाहनम्
हनू विद्याभेदं स्पृहयति वचस्सन्धिमसृणम्
परं पारं प्राप्तो हनुमदभिधस्सेवत इमम्।
तपोविद्यालक्ष्यं हरिवरयुतं ज्ञानफलदम्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
स्वर्णरथः
रथो देवस्यायान् कनकमय उत्तुङ्गशिखरः
पताकौन्नत्यं तत्प्रभुपदविभावं प्रथयते।
विलोकध्वं पापा.नपनुदत रम्यात्मविभवम्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
गजवाहनम्
गजाधिष्ठातायं दुरितदलनायातिबलवान्
चतुर्वर्गत्राता भवभयविधून्वन् शुभमतिः।
समायाति श्रीशः सकलवरदानो भयहरः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
सूर्यप्रभावाहनम्
ध्रुवं रोगज्ञानं भवति नयनात् किन्तु कुरुते
महारोगाघातं गरुडगिरवासाक्षि किमहो।
प्रभेनस्य त्रायेताच्युतविहरणाधारहटितेः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।(हट दीप्तौ)
चन्द्रप्रभावाहनम्
महीमाराच्चन्दन् जलधितनयो धान्यनिवहम्
लतावीरुत्सङ्घं प्रचुरमभितो वर्धयति ह।
इमं श्यालं रूढस्सह विहरते भावुकवरः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
अश्ववाहनम्
अहं कल्कीभावा.दवतरणमेष्यामि विबुधान्
सुगोपाये धर्मं दनुजखलमुन्मथ्य जगति।
हयारोहाद्देवो विशदयति सम्भाविविभवम्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
पल्यङ्किका उत्सवः
नरो मां जानीतां हृदयदहरस्थं हितमतिम्
समाजाङ्गीभावात् विचरतु सखित्वेन निरतम्।
प्रबोधायैवायं भ्रमति किल पल्यङ्कवहनः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
चक्रस्नानम्
यथा स्वामी मोदा.दवभृथविधौ पुष्करवतीं
समासन्नो यज्ञं नियतपरिपूर्तिं छलयते।
स्वचक्रस्नानेन द्विजवरसुभक्ताह्लादकरुणः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
ध्वजावरोहणम्
उपक्रान्तं कार्यं प्रतनु परिपार्यैव सुकृती
भवेरित्याहेदं ध्वजपट.मवारोहय.दसौ।
समाह्वानं नूनं क्रमयति विमोकं क्रतुषु यः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
मृगया यात्रा
सदाहिंसावृत्ति-प्रकृतखलसङ्घान् परिहरन्
सुरक्षा साधूनां मम विधिरिति ब्रूत उचितम्।
महोत्साहो देवो निजमृगयया रक्षणसुधूः।
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
वसन्तोत्सवः
वसन्तर्तुः कालं नवसमविशेषं सवविधेः
नवानां रात्रीणां रघुवरमह.स्सूचयति च।
अतो देवेशोऽयं दशरथसुतायेत शुभदः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
पवित्रोत्सवः
सपर्यातात्पर्यान् प्रतिदिन.मभिष्टावनिरतान्
कदाचि.ज्जामित्वा.दलसकलुषात् कुण्ठितवतः।
पवित्रीकर्तुं स्वान् परिचरगणानुत्सवयते
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
प्लवोत्सवः
समस्ते विश्वेऽस्तं प्रलयसमये याति भयदे
अनन्तोऽयं नौकाविहरणमुखात् रक्षति हरिः।
तत.स्स्मारं स्मारं प्लवनमह.माचारयत भोः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
पद्मावती परिणयः
निरालम्बात् कुण्ठारहित.निजलोकात् परिणयन्
सुकर्मा श्रीवासो भुवनतल.मायाति रमया।
महासौभाग्यार्थं परिणय.महो पश्यत जनाः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
पुष्प कवची
यदीयोरो वीर्यात् कठिन.मुचितं पेशल.मिदं
विभातु प्रेयस्या निवसनकृते पुष्पकवचम्।
अत.श्श्रधाऽऽस्थाभ्या.मुपहरत सौम्यप्रकृतये
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
देवालय मार्जनम् (कोयिल् आळ्वार् तिरुमञ्जनम्)
मुहूर्ते साहस्रं चलति भजतां दर्शनपथे
तदीयं प्रत्यब्दं मलिनहरणार्थाय भगवान्।
अगारं यो मार्ष्टि श्रुतिपठनपुण्याहविधितः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
अभिधेयक अभिषेकः ज्येष्ठाभिषेकः
अभिध्येयो देवः च्युतिरहितभावेच्छुविदथैः
स शुक्रे ज्येष्ठाभे सुभग.मभिषेच्येत विबुधैः।
अयं वस्ते वज्रं कनकमणिवर्म त्रिदिवसे
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
वज्रकवचधारी
दधानो देवेशः कुलिशखचितं वर्म रुचिरम्
मनोज्ञं शुक्राभं रिपु.दर.शमं दृश्यत इह।
अशेषश्री.स्त्रेधाव्यथनभि.दुपेन्द्रो विजयते
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
स्वर्णकवचधारी
पवित्रं सौवर्णं सचति यदुवंशाधिपवरो
धगद्ग्रैवेयालीं विधरति च सान्नाहुकवरः।
निसर्गोद्भूतस्वं प्रकटयति दारिद्र्यदहनः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
मौक्तिककवचधारी
शुचित्वं शुक्लत्वं वचसि मनसि स्वच्छकरणे
यदा वाञ्छेस्स्निग्धं शुभवरदरूपं व्रज विभुम्।
त्विषायातो मुक्तामणि कवचधारी सितयशाः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
सुप्रभात सेवा
सुयोगं सौभद्रं प्रतिदिनमभीषन्ति जनताः
तदर्थं प्रत्यूषे मह मुररिपुं शास्त्रविधिना।
शुभोदर्का तस्माद्भवतु परिचर्योषसि कृता
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।(मह - पूजायाम्)
तुलसीमालार्पणम् (तोमाला)
अनारोग्यं हातुं रचय तुलसीदाम सुधिया
अलङ्कारं विष्णोः पदयुगपुटे धेहि नियतेः।
ततः पत्रं भक्त्या गिल भव शतायुर्हरिरयं
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।(हरिः- रोगहरः)
अर्चनम् - पाशुरगानम्
यदीयेज्यां प्रेष्ठां महिमनि चिकीर्षन्ति मुनयः
कुलीना.स्तद्वंश्याः प्रवरगुरुमार्गानुचरिताः।
य.मेते गायन्तो रहसि वरिवस्यन्ति शतशः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
(महिमनि - महिम्नः निमित्ते)
कल्याणोत्सवः
पुमर्थानां त्रय्या.मनतिचरणीयौ मिथ इमौ
उदूढ्वा रक्षायै हरिपदरजोलङ्कृततनू।
वधू.रेतं भर्ता वहतुविधिनासेव्य तरतः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
(वहतुः - विवाहः)
डोलोत्सवः
मनो डोला ध्रौव्यात् विचलति विनिश्चेयविषये
यतो खिन्ते भीते.र्मनसिजविघाताद् दरहरः।
सजानि.र्निष्कामो विरमतु स डोलोत्सवसुखी
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
एकान्त सेवा
अनेकान्तं स्वान्तं चेत् मुखरयति नानाग्रगमनम्
अतो देवं नक्तं कलयत स बन्धु.र्निजजनः।
सपर्येयं निद्राप्रलयगतिपूर्वा भवतु वः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
सहस्रदीपालङ्कारः
सहस्रं दीपानां दिशति परिवेषं भगवतः
स्वतोविभ्राजत्वं मननयति पीतार्चिरतुलम्।
परीत प्राकाश्यं बुधजनगणा उद्धवमुखात्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
इन्दुवासरे चतुर्दशकलशाभिषेकः
विवक्षा सङ्ख्याया यदि भुवनगोलस्य सवयः
चतुर्दश्याचक्ष्व प्रभुरमुकसर्गं प्रततवान्।
चतुर्दश्यापूर्ण-स्रुतसलिलसिक्तो विजयते
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
भौमवासरे अष्टदल पद्माराधनम्
अहिंसा दान्तिर्वै दयनमपि पुष्पं प्रियकरम्
क्षमा ज्ञानं शान्तिः सुम.मपि तप.स्सत्यवचनम्।
प्रभो.रर्चायै स्याद् गुणगण.मभीप्स.न्नय.महो
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
सौम्यवासरे सहस्रकलशाभिषेकः
शिशो.र्मार्ष्टुं स्नातौ स्नपयत उभौ देह.मभितः
पिता मातेत्थं यः शुचिकलश साहस्र.जलतः।
शुचिस्सन् न.श्शुद्ध्यै स्नपन.मनुमन्येत जनकः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
गुरुवासरे चित्रान्ननिवेदनम् (तिन्त्रिणीरसाक्तस्य अन्नस्य निवेदनम्)
अमत्रे शाल्यन्नं सहलवण.माम्लस्रुतरसम्
घृताक्तं तैलेनाप्लुतमपि सुवस्त्रं परिजनाः।
हृषीकेशायास्मै प्रददति सुराचार्यदिवसे
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
वस्त्रभूषणम्
महार्घां शाटीं सुच्छविमरुणवर्णं सुवसनम्
उभे कर्णाभूषे कुलिशमुकुटं सूर्यछुरिकाम्।
महामालास्तिस्रः परिदधति यस्मै स रमणः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
भृगुवासराभिषेकः
घटीक्षीरं शृङ्गे बहुघटभरं दिव्यसलिलम्
समानीतं विप्रैः पुरुषनुतिमन्त्रैस्तु निलये।
विलोकेय श्रीशं वरद.मभिषिक्तं भृगुदिने
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
पीताम्बरवरः
हरेरास्ते पीताम्बरवर.मुदात्तार्थकलितम्
ख.मास्वादेतायं त्रिभुवन.महाव्यापिमहिमा।
अयं सन्धार्येत त्रिकरतत.पीताम्बरवरम्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
निजपाददर्शनम्
अनाच्छादे व्योम्नि प्रसृतनयनाः पण्डितवराः
यथा वीक्षन्ते त.द्धरिपदमिदं पश्यत जनाः।
जगज्जन्मा देवो पदयुगलमादर्शयति भोः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
पुष्पयागः
त्रिधा प्रोक्तान् यागा.हुतहुतविप्राहुतिविधान्
सुखं कर्तुं शक्यं हरिपदसरोजेर्पणविधेः।
सुपुष्पाणां यागः श्रथति मलिनं भूतविततेः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
पञ्चाङ्गश्रवणम्
यदीयं श्रेयोदं चरणयुग.माश्रित्य चरते
ग्रहज्योतिस्स्तोमः शुभ.मशुभ.मापद्यत इतः।
अतोङ्घ्रिस्थानं मा त्यजत तदु पञ्चाङ्गधरुणम्
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
उषःकाले आस्थानसभा
यदास्थानं लोक.स्थितिहितकरं शङ्कर.मतः
प्रभाते नित्यं वे.ङ्कटपतिरशेषाश्रितजनान्।
परित्रातुं युङ्क्ते सुलभशरणं यात सुजनाः
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
धर्मगिरिः
समस्तोयं धर्मः प्रभवति हि बुध्नात् श्रुतिततेः
अतो मूर्धन्यत्वात् विधरति विभु.र्वेदपठितॄन्।
समुत्तुङ्गाग्रेषु द्विजवरगणान् धर्मगिरिणा
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।
मङ्गलाशासनम्
किमाशास्य ब्रूमो हरि.रवति सर्वं त्रिभुवनम्
अनेनाक्रान्तं तत् प्रवलति महाविष्णुपदतः। वय.ञ्चेत् तस्याङ्गं स्मरण.मुपपन्नं भवति वा?
स्वसिद्धां गोविन्दो द्वयरहित संस्थां प्रदिशताम्।।(वल- संवलने)
मत्स्यावतारः
महाकाला.ल्लीने जलधिबहुपूरे भुवि पुरा
पुनस्सृष्टे रक्षां स झषवपु.रैच्छत् श्रुतिमुखात्।
ततो जह्रे सोमं दितिसुत.मशेषावनचणः
जगत्त्राणो विष्णुर्दशविधविलासः प्रदयताम्।।
कूर्मावतारः
श्मशानं मा भू.द्भू.रिति कमठ.निक्षेपमुखतः
यथा यज्ञं दध्रे सुरदनुजमाथेचलवरम्।
महामन्थानं यो जनगण.महाधारसुदृढः
जगत्त्राणो विष्णुर्दशविधविलासः प्रदयताम्।।
वराहावतारः
भुवः पीडां कुर्व.न्नसुरधिषणो लोकमषणः
परः स्वार्थात् हिंस्यो भवति जनसंरक्षितु.रतः।
हिरण्याक्षं क्रूरं समहर.दसौ क्रोडवपुषा
जगत्त्राणो विष्णुर्दशविधविलासः प्रदयताम्।। (मष-हिंसायाम्)
नारसिंहावतारः
यदा हिंसा तीव्रा लगति किल शिक्षा तदनुगा
स्वपुत्रं प्रह्लादं झषति हरिभक्तं गुणखनिम्।
हरि.स्सर्वस्थायी कनककशिपुं परिमृजन्
जगत्त्राणो विष्णुर्दशविधविलासः प्रदयताम्।। (झष-हिंसायाम्)
वामनावतारः
उपेन्द्र.स्सञ्जातोदितिवरकृते वामनवटुः
महादाने धर्मार्जवहित.जगत्पालनपटोः
स्वभक्तस्य ख्यातिं प्रथयति बलेः पत्त्रितयतः
जगत्त्राणो विष्णुर्दशविधविलासः प्रदयताम्।।
परशुरामावतारः
यतो राजा विष्णोः प्रतिनिधिरिति प्राह निगमः
प्रजावित्तं रक्ष्यं नियत.मपराधं न सहते।
यदा मुष्णीयात् तं द्विजपरशुरामोर्वतु सदा
जगत्त्राणो विष्णुर्दशविधविलासः प्रदयताम्।।(अर्व- हिंसायाम्)
रामावतारः
त्यज प्राणं मानं ननु किमिह तैर् धर्मरहितैः?
उदाहारो धर्मे भवितु.मवतीर्णो रघुकुले।
जिगायासौ रामो दशरथसुतो लोकगुरुराट्
जगत्त्राणो विष्णुर्दशविधविलासः प्रदयताम्।।
कृष्णावतारः
सुखं जीव्यात् लोकः पर.मिह निदानं नरजनेः
महत् ज्ञानं काम्यं दिशति भगव.द्गीतवचनात्।
स पुत्रो देवक्याः ललितचरितो योगविभवः
जगत्त्राणो विष्णुर्दशविधविलासः प्रदयताम्।।
बौद्धावतारः
दया भूतेष्वास्ताम् सहजनिषु दानं कुरु सदा
जगद्दृश्यं नश्यं सदन.सुत.लोभं त्यज सखे।
स्वशान्त्यै भिक्षुत्वं सपति किल बुद्धस्सुविमलः
जगत्त्राणो विष्णुर्दशविधविलासः प्रदयताम्।।(सप - सम्यगवबोधे)
कल्क्यवतारः
प्रलेपो भैषज्यं व्रणसमशुचां नैव घटते
मलीमस्याविद्धे जगति च तनौ दग्धुमुचितम्।
स कल्की सम्भूय ग्लपयति मलं लोकविचितम्
जगत्त्राणो विष्णुर्दशविधविलासः प्रदयताम्।।
अहर्निशं दर्शयते
प्रजापालं मां सुप्रजसमिति सङ्कीर्त्य जनता
समाश्रित्यास्ते ता.मवनधृतदीक्षानिरतधीः।
सुदर्शय्यात्मानं पथि पथि समव्यात्तु समये
जगत्त्राणो विष्णुर्दशविधविलासः प्रदयताम्।।
लक्षशः जनान् भरति
प्रवर्तन्ते जीवाः नरविहगपाथश्चरमृगाः
अदन्तीमे जीवान् तरुतृणनिकायं बहुविधम्।
यत.श्चाहारोत्पत्तिर् भवति स कलाधारगरिमा
जगत्त्राणो विष्णुर्बहुविधविलासः प्रदयताम्।।
आनन्द हेतुः
ममानन्दे हेतुः परिणमति तर्केण वयसः
यदङ्गीकाराद्वा विरहणविधानाद् विषयिणाम्।
घनानन्दं वाचो लुलितमनसो वा प्रहिणुते
निदानं मद्वृत्तेः ललतु विभु.रेतद्विरचनात्।। 113
विकारि संवत् फाल्गुन्यमा
वंशीकृष्ण घनपाठी
24 -03-2020 मैसूरु
त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये
भक्तिपूर्वक समर्पणम् – वंशीकृष्ण घनपाठी