गुरु सिद्धि स्तोत्रम्
अवतारिका- अष्टसिद्धिसमुपेतो गुरुरिति, सर्वस्वरसमलंकृतानामपौरुषेयवचसां लक्ष्यभूतो यमिति ख्यापनायोपक्रम्य, प्राथम्येन सद्गुरोः गरिमाख्य सिद्धिः गुरुत्व प्रकारेण विव्रियते।
1) य एष गरिमस्वरा - डवततार पृथ्वी जनीन्
अनल्पसुख मेदुरे महति वेविषाणो जनान्।
महाशुच मधीरय - न्नविदुरोपलां भेदयन्
स वज्रपटिमेडितो - भवतु सच्चिदानन्दसात्।। 1।। (साः)
(यः, एषः गरिमस्वराट्) गरिम्णा हेतुना स्वराट्, (महाशुचम्) संसारात्मकं महारोगं (अधीरयन्) न्यूनीकुर्वन्, (पृथ्वीजनीन्) पृथिव्यां जनिः जन्म येषां तान्, (जनान्) (अनल्पसुख मेदुरे) महासुख सान्द्रे, (महति) ब्रह्मणि, (वेविषाणः) व्यापयन्। विषॢ व्याप्तौ, श्लु, शानच्। (अविदुरोपलां) तत्रत्याम् अविदुराख्यां अज्ञानात्मिकां उपलां शिलां (भेदयन्), (अवततार), नित्यमाविर्भवति, (सः वज्रपटिमा) वज्रस्य पटिमेव पटिमा यस्य सः।
इति, अस्माभिः (ईडितः) स्तुतः। अस्माकं (सच्चिदानन्दसाः) सच्चिदानन्देन साः। षो अन्तकरणे दैवादिकः, क्विप्। आदेश उपदेशेशिति इति आत्वम्, ततः क्विप्। अवसानकाले सच्चिदानन्देन जीवनं समापयतीति यावत्। यद्वा सच्चिदानन्दसात् भवतु। विभाषा साति कार्त्न्ये - इति अभूततद्भावे सम्पद्यमाने, कुर्वाणे सति सातिः। कृभ्वस्तियोगः। असच्चिदानन्दान् तदनुभवविहीनान् सच्चिदानन्दवतः करोतु इति यावत्।
वज्रसदृशसामर्थ्यं गुरोरेवेति वर्ण्यते, तेन शिलेव कठिनमज्ञानमपि भिद्यते, ततः भवरोग निवारणं, अनिर्वचनीयमहानन्दः, सच्चिदानन्दात्मक परब्रह्मानुभावेन पार्थिवदेहवासानमिति मोक्ष क्रमः सद्गुरोः सकाशात् भवत्विति प्रार्थना। 1।।
अवतारिका - अथ सद्गुरोः महिम नामक सिद्धेः प्रकारः वेदार्थपथगमकत्वरूपेण प्रकाश्यते।
2) य एष महिमस्वरा - डखिल नायकोन्नायको
जगन्ति नयति स्वयं - परमनन्तवेदार्थसात्।
मखाधिकरणो भवन् - सुकृतिनां भलोकं दिशन्
स वज्रपटिमेडितो - भवतु सच्चिदानन्दरीः।। 2।।
(यः एषः, महिमस्वराट्) महिम्ना स्वराट्, (स्वयम् अखिलनायकोन्नायकः) अखिलनायकानां उन्नायकः - सर्वान् नायकान् उन्नयति।
जगन्ति परं (प्रकर्षेण) नयति। कथं नयति? (अनन्तवेदार्थसात्) अनन्ताः वेदाः। तेषामर्था अप्यनन्ताः। वेदार्थो कर्मणि ब्रह्मणि पर्यवसीयते। अतः वेदार्थ प्रचारेण अनभिज्ञान्, पूर्णतया वेदसिद्धान्तमण्डितान् कुर्वन्। तेन सर्वे जनाः उद्ध्रियन्ते।
कथमेतत् साध्यते? गुरुरेव गोविन्द इति विशदीक्रियते। मखाधिकरणः भवन् - (मखस्य नानारूपस्य यज्ञस्य, अधिकरणः (अधिक्रियते अनेन/ अस्मिन्निति वा। यज्ञो वै विष्णुः)। सर्वपुण्यकर्मणामाधारभूतः परमात्मैव।
(सुकृतिनां भलोकं दिशन्) यज्ञानुष्ठानादनन्तरं, सुकृतिनां पुण्यवतां यज्वनां, भलोकं नक्षत्रलोकं दिशन् प्रापयन्। सुकृतां वा एतानि ज्योतींषि, यन्नक्षत्राणि तान्येवाप्नोति - इति श्रुतिः। (सः) तादृशो गुरु गोविन्दः, (वज्रपटिमा) वज्रस्य पटिमेव पटिमा यस्य सः। अस्माभिः (ईडितः) स्तुतः सन्।
अस्माकं (सच्चिदानन्दरीः भवतु) सच्चिदानन्दं रिणातु, गच्छतु। अन्तर्भावितो णिच्। तेन राययति गमयति प्रापयतीति। रीः। री गतिरेषणयोः क्रैयादिकः, क्विप्। अस्मान् सच्चिदानन्दं गमयत्विति। यद्वा प्रत्यगात्मतया स्थितस्सन् स्वयमेव प्राप्नोतु।। 2।।
अवतारिका - इतः परं सद्गुरोः अणिमाख्य सिद्धिः पापप्रवृत्ति निर्मूलकत्वेन वर्ण्यते।
3) य एतदणिमानमैत् - वृजिनमूलनिर्मूलने
पुराण दुरितज्वर - क्लमविशीर्ण चित्तव्रजान्।
चिकित्सति च संस्करो - त्यगददायि दैव्यो भिषक्
स वज्रपटिमेडितो - भवतु सच्चिदानन्दगाः।। 3।।
(यः), (वृजिनमूलनिर्मूलने) वृजिनानां वर्जनीयानां पापानां मूलस्य पापकारकप्रकृतेः निर्मूलने विषये, (एतदणिमानम्) एतम् अणिमानम् सूक्ष्मत्वम् (ऐत्), प्राप्नोत्। सः (चिकित्सति) भिषज्यति। कान्?
(पुराण दुरितज्वर - क्लमविशीर्ण चित्तव्रजान्) पुराणं दुरितं प्रारब्धं पापम्। तदेव ज्वरः। तस्य प्रारब्धदुरितज्वरस्य क्लमेन श्रमेण विशीर्णानि चित्तानि येषां ते जनाः पुराणदुरितज्वर क्लमविशीर्ण चित्ताः। तेषां व्रजान् समूहान् चिकित्सति। पुनः किं कुरुते? संस्करोति च। दुरितकारक चित्तवृत्तीनां निर्मूलनात् संस्कुरोतीति भावः।
कथं भूतस्सः? अगददायि दैव्यो भिषक्। अगदमौषधम्। तद्ददाति अगददायी। स च दैव्यः, अगददायि दैव्यः भिषक्। साक्षात् परमेश्वरः। प्रथमो दैव्यो भिषक् - इति श्रुतेः। तद्रूपी
(सः) गुरुः परमेश्वरः, (वज्रपटिमा) वज्रस्य पटिमेव पटिमा यस्य सः। अस्माभिः (ईडितः) स्तुतः सन्। (सच्चिदानन्दगाः) सच्चिदानन्दं गायति कीर्तयति शब्दयति उक्थैः स्तोत्रैरिति, सच्चिदानन्दगाः। गै शब्दे। भौवादिकः, क्विप्। आदेच उपदेशे शिति इति आकारान्तता कृति परतः) अस्माकं सच्चिदानन्दस्य गायकः स्तावकः भवतु सम्पद्यताम् ।। 3।।
अवतारिका -
अथ सद्गुरोः लघिमाख्य सिद्धिः सत्कार्यदक्षाणां प्रचोदकत्वेन वर्ण्यते।
य एष लघिमाध्वना - गुरुतरैक कार्यावली-
सिसाधयिषु मण्डली - प्रसुवनोपकारक्रमी।
अनूनभवसंसृते - रुपरतिं प्रयच्छन् महान्
स वज्रपटिमेडितो - भवतु सच्चिदानन्दमाः।। 4।।
(यः एषः अनूनभवसंसृतेः) अनूनभवा अखण्डभूता (अनल्पभूता) संसृतिः संसारः। तस्मात् उपरतिं विरामं प्रयच्छन् ददत् महान् महापुरुषः। संसृतेः अखण्डप्रवाहात् विरमयतीति भावः।
केन पथा?
लघिमाध्वना लघिमा इति सिद्धेः अध्वना मार्गेण। पुनश्च (गुरुतरैक कार्यावली-सिसाधयिषु मण्डली - प्रसुवनोपकारक्रमी।) गुरुतराणि एकानि मुख्यानि कार्याणि यानि वर्तन्ते, तेषामावल्याः। मुख्य कार्य परंपरायाः सिसाधयिषवः साधनेच्छवः सज्जनाः। तेषां मण्डल्याः समूहस्य प्रसुवनम् प्रचोदनमिति उपकारः। तादृश उपकारस्य क्रमोस्येति। लोकोपकारक कार्याचरणे प्रवृत्तान् सज्जनान् प्रचोदयति समर्धयतीति भावः। (ऋध्नोतेर्णिच्)
(सः) गुरुः परमेश्वरः, (वज्रपटिमा) वज्रस्य पटिमेव पटिमा यस्य सः। अस्माभिः (ईडितः) स्तुतः सन्। (सच्चिदानन्दमाः) सच्चिदानन्दं माति, पूजयतीति सच्चिदानन्द माः। मा - माने आदादिकः, क्विप्। अस्माकं सच्चिदानन्दस्य मायकः पूजकः प्रोत्साहकः भवतु सम्पद्यताम् ।। 4।।
अवतारिका - अथ सद्गुरोः प्राप्ति नामक सिद्धिः योगसाधन वशता च कीर्त्यते।
य एष घनयोगरा - डतुलवस्तु संप्राप्तिमान्
निजाश्रित दरिद्रता - परि बिभाव.यिषयोद्यतः।
कुशाग्र धिषणाश्रितो - रचित कार्य सम्प्रत्ययः
स वज्रपटिमेडितो - भवतु सच्चिदानन्दपाः।। 5।।
(यः एषः) घनयोगराट् (घनस्य योगस्य राट् राजा, योगेशः। अत एव (अतुलवस्तु संप्राप्तिमान्) अतुलानि अनुपमानानां वस्तुनां संप्राप्तिरस्य वर्तते।
तस्मात् विभवात् (निजाश्रित दरिद्रता - परि बिभावयिषया) निजाश्रितानां स्वाश्रितानां भक्तानां दरिद्रतां दारिद्र्यं परिबिभावयिषया (परिभवितुमिच्छया) (उद्यतः) उद्यमशीलः वर्तते। भक्तसम्पत्तिं वर्धयतीति यावत्।
केन प्रकारेण?
(कुशाग्र धिषणाश्रितः) कुशानामग्राणीव निशिता या धिषणा तस्याः अश्रिः - कोटिः। तस्याः हेतुना। पञ्चम्यां तसिः। (रचित कार्यसम्प्रत्ययः) रचितः कार्याणां संप्रत्ययः येन सः। स्वकीययोजना बुद्धिकौशल्येन विधीयत इति भावः। यद्वा कुशाग्र धिषणां श्रितेभ्यः जनेभ्यः हेतोः, स्वकीयानि कार्याणि साधयति प्रापयतीति सद्गुरोः प्राप्तिसिद्धिमत्ता राजते।
(सः) गुरुः ईश्वरः, (वज्रपटिमा) वज्रस्य पटिमेव पटिमा यस्य सः। अस्माभिः (ईडितः) स्तुतः सन्। (सच्चिदानन्दपाः) सच्चिदानन्दं पाति, रक्षतीति सच्चिदानन्द पाः। पा - रक्षणे आदादिकः, क्विप्।अस्माकं सच्चिदानन्दस्य रक्षकः (भवतु) सम्पद्यताम् ।। 5।।
अवतारिका - अथ सद्गुरोः ईशित्व सिद्धिः परमेश्वररूपतया कीर्त्यते।
य एष जगदीशिता - निगममूलनिश्वासवान्
नियच्छति सुरासुरान् सकलभूतजातं प्रभुः।
फलानुभवदायक श्चरितपुण्यपापात्मनाम्
स वज्रपटिमेडितो - भवतु सच्चिदानन्दधाः।। 6।।
(यः एषः जगदीशिता) जगतः ईशिता पालकः (निगममूलनिश्वासवान्) निगमाः वेदाः, तस्य मूलम् ये निश्वासाः, तेस्मादेव। ईश्वरो गुरुरात्मेति मूर्तिभेदवर्णनं वाचारम्भणमेव। वस्तुतः एक एवेश्वरो शिष्यानुग्रहाय गुरुरूपमाश्रयतीति स्मार्यते।
पुनरस्य ईशितृत्वं प्रभुत्वं कथं वर्तत इति प्रपञ्च्यते। (चरितपुण्यपापात्मनाम्) चरितानि आचरितानि पुण्यानि पापानि च यैस्तेषां आत्मनां जीविनां (फलानुभवदायकः) फलस्य अनुभवः कर्मफलानुभवः। तस्य दायकः दाता सन्। पार्थिवशरीरैराचरितानां सर्वेषां कर्मणां पाञ्चभौतिकशरीरेणैव भोक्तुं न शक्यते, तत्तज्जन्मनामन्ते सूक्ष्मदेहापन्नात्मभिः यथोद्दिष्टं फलमनुभूयते। तादृश प्रतिकर्मव्यवस्थायाः अध्यक्षोयमिति भावः। ततश्च-
(प्रभुः) अधीश्वरस्सन् (सुरासुरान्) पूर्वकाले देवान् असुरान्, सम्प्रति दैवासुर भाववतो जनांश्च, तथैव (सकलभूतजातं) चराचरसृष्टिं (नियच्छति) नियमयति यः परमेश्वररूपी सद्गरुः
(सः), (वज्रपटिमा) वज्रस्य पटिमेव पटिमा यस्य सः। अस्माभिः (ईडितः) स्तुतः सन्।
(सच्चिदानन्दधाः) सच्चिदानन्दं दधातीति। डु धाञ् धारणपोषणयोः- जौहोत्यादिकः, क्विप्। अस्माकं सच्चिदानन्दस्य धारकः पोषकश्च (भवतु) सम्पद्यताम्।। 6।।
अवतारिका - अथ सद्गुरोः वशित्व सिद्धिः मुनिगुरुलक्षणतया कीर्त्यते।
य एष वशिताग्रणीर् - वियमसत्त्व रूपी सना
शमादिशुभलक्षणो वशिनिकाय सन्नायकः।
गरिष्ठपदवीमलं - कुरुत आदरेण स्वके
स वज्रपटिमेडितो - भवतु सच्चिदानन्दनीः।। 7।।
(यः एषः वशिताग्रणीः) मनसः वशः अस्यास्तीति वशी। तस्य भावो वशिता। तया हेतुना अग्रणीः अग्रं नयतीति। दुर्निग्रहस्य चलस्य मनसो निग्रहेण शिष्यानग्रे नयतीति भावः।
पुनः कथम्भूतस्सः? सना सदा स्वयं (वियमसत्त्व रूपी) वियमः इन्द्रिय निग्रहः। पञ्च कर्मेन्द्रियाणि, पञ्च ज्ञानेन्द्रियाणि। एषां निग्रहे सत्त्वं धामैव रूपं यस्य। वियमसत्त्वरूपम्। तदस्यास्तीति वियमसत्त्वरूपी। तथा च (शमादिशुभलक्षणः) शमादयः षट् गुणाः। शम आदिर्येषां ते - शमः, दमः, उपरतिः, तितिक्षा, श्रद्धा, समाधानमिति। त एव शुभानि लक्षणानि सदा यस्य सः। अत एव (वशिनिकाय सन्नायकः) वशिनां उत्तमाधिकारिणां साधकानां निकायः समूहः। तस्य सन्नायकः। वशिनिकायं सम्यक् नयति परं ब्रह्म प्रापयतीति यावत्।
एवञ्च - स्वके (स्वीये भक्तजने, तस्य विषये) (आदरेण) भावेन (गरिष्ठपदवीम्) गरिष्ठ इति पदवीम्। गुरूणां गुरुत्वमिति पदम्। यः अलंकुरुते अधितिष्ठति। स पूर्वेषामपि गुरुः कालेनानवच्छेदात् - इति योगसूत्रम्। तथाविध परमेश्वरात्मकः सद्गुरुः। भक्तजनेषु आदरेण गुरुत्वमङ्गीकरोतीति भावः।
(सः वज्रपटिमा) वज्रस्य पटिमेव पटिमा यस्य सः। अस्माभिः (ईडितः) स्तुतः सन्।
(सच्चिदानन्दनीः) सच्चिदानन्दं नयतीति। णीञ् प्रापणे- भौवादिकः, क्विप्। अस्माकं सच्चिदानन्दस्य नायकः प्रापको (भवतु) सम्पद्यताम्।। 7।।
अवतारिका - अथ सद्गुरोः प्राकाम्याख्य सिद्धिः लोककल्याणलक्ष्मा सम्भाव्यते।
य एष भुवनत्रयी - कुशलता प्रकामान्वयी
समृद्धिमुपकल्पते - प्रतिशरीरि सन्दोहके।
अनन्त हितसंविदं दिशति मोक्षसन्धायकः
स वज्रपटिमेडितो - भवतु सच्चिदानन्दधीः।। 8।।
(सच्चिदानन्दः एव धीः यस्य सः।)
(यः एषः भुवनत्रयी कुशलता प्रकामान्वयी), भुवनानां त्रयी। भूलोक भुवोलोक स्वर्लोका इति त्रयस्य कुशलता क्षेमत्वमिति प्रकामे प्रकृष्टकामे, अन्वयः सम्बन्धः अस्यास्तीति। प्रभूताः कामाः लोके वर्तन्त इत्यनुभवसिद्धमेव। किन्तु लोककल्याणमिति प्रकृष्टकामोस्य गुरोः सिद्धिलक्षणमिति भावः।
तदनुरूपेण (प्रतिशरीरि सन्दोहके) शरीरिणं शरीरिणं प्रतिशरीरि प्रतिजीवि सन्दोहके सर्वप्राणि समूहे। (समृद्धिम्) (उपकल्पते) आवश्यकानां आहारावासादीनां समृद्धिं कल्पयति। तथा च श्रेयोनिमित्तम् (अनन्त हितसंविदं) नास्त्यन्तो यस्यास्सा च हिता च। अनन्तहिता या संवित् तां (दिशति) प्रयच्छति।
किं बहुना? (मोक्षसन्धायकः) मोक्षस्य सन्धायकः, जीविषु विषये मोक्षञ्च सन्धत्ते पोषयति च। कर्मफल त्यागरूपं वा, अनात्मन्यात्मताभ्रान्तिरूपाध्यासहानरूपं वा मोक्षं यो बिभर्ति। तादृश प्राकाम्यसाधनसम्पन्नो गुरुः (सः वज्रपटिमा) वज्रस्य पटिमेव पटिमा यस्य सः। अस्माभिः (ईडितः) स्तुतः सन्। (सच्चिदानन्दधीः) सच्चिदानन्दः एव धीर्यस्येति। यद्वा सच्चिदानन्दं ध्यायतीति वा। तत्पक्षे ध्यै- चिन्तायाम् धातोः सम्प्रासरणम्, क्विप् च। अस्माकं सच्चिदानन्दस्य ध्यायकः चिन्तको (भवतु) सम्पद्यताम्।। 8।।
अवतारिका - अथ सद्गुरोः कामावसायिता नामिका सिद्धिः वैराग्यलक्ष्मवती कीर्त्यते।
य एष जनिसम्भव - प्रचुरसर्व कामावसाः
अजस्र भवचक्रके - निपतता.मिहोद्धारकः।
वशीकृति विरागिता घन समन्तसम्पत्तिदाः
स वज्रपटिमेडितो - भवतु सच्चिदानन्दनीः।। 9।।
(यः एषः) (जनिसम्भव - प्रचुरसर्व कामावसाः) जनिषु सम्भवाः प्रचुराश्च ये कामाः, तेषाम् अवसाः अवसायकः अन्तकारकः। अवेत्युपसर्गपूर्वकात् षो-अन्तकरणे दैवादिकात् धातोः क्विप्। आदेश उपदेशेशिति इति आत्वम्। जीविषु प्रतिक्षणमुत्पद्यमानान् बहून् कामानवसाययतीति कामावसायिता सिद्धेः लक्षणमुच्यते।
तत्प्रयोजनमथ प्रोच्यते। असति कामावसाने, (इह अजस्रभवचक्रके) अजस्रे निरन्तरे भव इति चक्रके संसार चक्रे, बहुविस्तारे संसारे (निपतताम्) निपत्य भ्रममाणानाम् (उद्धारकः) उद्धर्ता। कीदृशीयमुद्धरणफक्किकेति इतः परं विशदीक्रियते।
(वशीकृति विरागिता घन समन्त सम्पत्तिदाः) वशीकृतिरिति विरागिता। वशीकारनामक वैराग्यं यत् योगशास्त्रे प्रसिद्धम्। घना च समन्ता च या सम्पत्तिः?। योगसम्पत्तिः। वशीकृतिविरागिता च घनसमन्तसम्पत्तिश्च - तयोर्दाः दाता। डु दाञ् दाने, क्विप्। वैराग्यभावं निधाय निर्विकारमनसं कृत्वा, ततः अनन्त योगसम्पत्तिं प्रसादयतीति भावः।
(सः वज्रपटिमा) वज्रस्य पटिमेव पटिमा यस्य सः। अस्माभिः (ईडितः) स्तुतः सन्। (सच्चिदानन्दनी भवतु) आनन्द्यते अनेनेति आनन्दनः उपदेशः। करणे ल्युट्। सदेव चित्। अवधारणपूर्वपदकर्मधारयः। सच्चिदः आनन्दनः सच्चिदानन्दनः इति षष्ठीतत्पुरुषः। सैष सच्चिदुपदेशोस्यास्तीति सच्चिदानन्दनी। इनिः तद्धितः मत्वर्थीयः।
अस्माकं सच्चिदानन्दनीः सच्चिदुपदेशहेतुकम् आनन्दं प्रयच्छन् भवतु सम्पद्यताम् ।। 9।।
फलस्तुतिः
य एष महतीं मुदं निज तमोश्म सम्भेदिकां
गुरोरमितशान्तिदां मनसिजारिनिर्मूलनीम्।
अवेप्सति जितेन्द्रिया र्जित समाधिसौख्यां स्तुतिं
स वज्रनिभसिद्धिदां पठति सिद्धवज्रायुधाम्।।
(यः एषः) भक्तः (महतीं मुदं) प्रभूतां तुष्टिम्? किंहेतुकाम्? (निज तमोश्म सम्भेदिकां) निजं स्वीयं तम एव अश्मा। तस्य निजतमोश्मनः सम्भेदिकाम्। स्वाश्रयभूतस्य अज्ञानरूपस्य शिलाया भेदनेन ततश्च। पुनश्च (अमितशान्तिदां) मितिरहिता अमिता या शान्तिस्तस्या दात्रीम्। तथा च (मनसिजारिनिर्मूलनीम्) मनसि जायत इति मनसिजः कामः, स एव अरिः। मनसिजारेः निर्मीलनीम्। (जितेन्द्रियार्जित समाधिसौख्याम्) जितानि इन्द्रियाणि एभिरिति जितेन्द्रियाः ऋषयः, तैरार्जितं समाधिरिति सौख्यं यस्यास्ताम्। (अवेप्सति) अवाप्तुमिच्छति। (सः) साधकः (वज्रनिभसिद्धिदां) वज्र इव वज्रनिभा सिद्धिर्यस्यास्तां (सिद्धवज्रायुधाम्) सिद्धः वज्र इति आयुधः यया ताम् (गुरोः स्तुतिं) सद्गुरोरिमां स्तुतिं (पठति)
वज्र इव प्रशस्ता सिद्धिः, आन्तरबाहिररिपुबाधोपशमन वज्रायुधमूलकरक्षा च स्तोत्रपाठद्भवतीति, तथा च निखिलकामनिर्मूलनेन ज्ञानप्रापणेन च सुखशान्ती लभ्येते इति भावः।।
किं तर्हि? स्तोत्रपाठमात्रेण सर्वं लभ्यते चेत्, कार्यमवशिष्टं किञ्चिल्लभ्यते इष्टकामार्थसिद्धय इति संशीतिं निवारयत् स्तोत्रमवसीयते।
विधेय वरिवस्यया गुरुमुखात्त तत्त्वार्थवाङ्-
निकाय मनुदध्नुव - न्नवगतं निदिध्यासयन्।
नितान्त करुणालयं गणपतिं गुरुं भावयन् (निजगुरुं सदा भावयन्)
सुधाम्बुधि निमज्जना - दधिकमोद माप्नोति सन्।।
(विधेय वरिवस्यया) विधेया आचरणीया या वरिवस्या गुरुपूजा, तया (गुरुमुखात्त तत्त्वार्थवाङ्निकायम्) गुरोः मुखात् आत्तानां गृहीतानां, तत्त्वार्थानां वाचां निकायं समूहम्, (अनुदध्नुवन्) अनुपालयन्। दध घातने पालने च सौवादिकः। ततः उवङ्-शतारौ।
(अवगतं) गुरुवाक्यात् ज्ञातमर्थं (निदिध्यासयन्) निरन्तरं संस्मरन् (नितान्त करुणालयं) अपारदयानिधिं (गणपतिं गुरुं) श्री गणपति सच्चिदानन्द सद्गुरुं मनसि (भावयन् )
अथवा (निजगुरुं सदा भावयन्) स्वस्य गुरुं सर्वदा चिन्तयन् (सुधाम्बुधि निमज्जनात्) सुधायाः अम्बुधौ अमृतस्य अम्बुधौ निमज्जनात् अवगाहात् (अधिकमोदम्) अधिकमानन्दं (सन्) सज्जनः (आप्नोति) प्राप्नोति।।
दुर्मुखि मार्गशीर्ष अमावास्या वंशीकृष्ण घनपाठी
जनवरि 2017
अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा। ईशित्वञ्च वशित्वञ्च यच्च कामावसायिता।।
उपरतिनं पद्यं दत्तपुराणादुद्धृतम्। यद्यपि लोकप्रसिद्धासु सिद्धिष्वष्टसु गरिमनामिका वर्तते, तद्भिन्नतया कामावसायिता सिद्धिः प्रोच्यते पुराणे। उभयग्रन्थविषयसंवेशनेन सिद्धीनां नवकं भवति यदस्मद्गुरौ वर्तत इति प्रतिपादयन् प्रथमश्लोको, गरिमशब्दस्य रूढस्य बोधकवाचि गुरुशब्दस्य भावं वर्णयतीत्यवधार्यताम्।।