कर्मप्रबोध ग्रन्थविषयः

प्रार्थनम्

तद् ब्राह्मणस्पत्य.मह श्चिकित्वान् वाच्यं चितं सद् गुरुवर्य.भर्गः।

श्रौतादि.कर्मण्य.निगूढ.तत्त्व स्तोमावगत्यक्तमुदे नतोस्मि।। 1

2. क्षीरे व्याप्त मिवाज्य मत्र विततं गूढं हि तत्त्वं महत्

श्रौत.स्मार्त.सुकर्मणी प्रविदध.द्वाक्येषु दृश्येत यत्।

शस्तं तद्यदि गम्यते सुविशदं कर्मैव यष्टॄन् ततः

कर्मातीत महत्तर स्थिति मवापय्यैव सम्पारयेत्।। 2

3. ग्रन्थोपक्रम सङ्गतस्तु विषयो, मध्ये च चर्चां गतः

आन्तं युक्तिगणै.र्मुहु.र्मुहु.रतो राद्धान्त.मुज्जृम्भते।

श्रुत्यां पूर्वविभाग.कर्मविधयो वेदान्तसंसूचकाः

पारोक्ष्येण तु बोधयन्ति बहुधान्विच्छेम तत्त्वं ततः।। 3